पृष्ठम्:रामायणमञ्जरी.pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
काव्यमाला ।


जटाभृदिति दुःखेन हेतुरस्मीति लज्जया ।
प्राप्तो मयेति हर्षेण सोऽभूदाकुलिताशयः ॥ १७४ ॥
मन्दमन्दैर्मुहुः शोकादौत्सुक्यात्त्वरितैर्मुहुः ।
स भ्रातुरन्तिकं प्राप व्रीडाविलुलितैः पदैः ॥ १७५ ॥
रामं नत्वाश्रुसंरुद्धदृष्टिः क्ष्मालग्नशेखरः ।
आर्येत्युक्त्वा निपतितो नान्यद्वक्तुं शशाक सः ॥ १७६ ॥
तं मूर्छितं निपतितं समादाय महाभुजः ।
अङ्के रामः समारोप्य बाष्पदुर्दिनवानभूत् ॥ १७७ ॥
प्रीत्या मूर्ध्नि तमादाय पप्रच्छ स्वच्छमानसः ।
दन्तांशुनिवहेनाग्रे हंसमालामिवावहन् || १७८ ॥
दिष्ट्या पश्यामि वत्स त्वां वात्सल्यप्रणयास्पदम् ।
कच्चित्तातमनामन्त्र्य नागतोऽस्यजनं वनम् ॥ १७९ ॥
कच्चित्स कुशली राजा राजश्रीरजनीविधुः ।
व्योममानसहंसालीर्यस्य कीर्तिर्विराजते ॥ १८० ॥
कुशलिन्यो जनन्यस्ताः कच्चित्ताः कुलदेवताः ।
पुरोधाः कुशली कच्चित्समैत्रावरुणो मुनिः ॥ १८१ ॥
रक्षितात्मा हितामात्यः कोशराष्ट्रविवर्धनः ।
भृतदुर्गो मौलिबलः कच्चित्सन्मित्रवानसि ॥ १८२ ॥
कच्चित्प्राप्ताभिषेकस्य मत्त्रिणस्तव संमताः ।
प्रौढराज्यप्रवहणे संप्राप्ताः कर्णधारताम् ॥ १८३ ॥
मन्त्रः कच्चिदचपलैरामोदैरिव मारुतैः ।
कीर्यते तव संमर्दी सर्वं भिन्नो भिनत्ति सः ॥ १८४ ॥
कच्चित्सुखी प्रजाकार्यविचारपरिपन्थिनीम् ।
निन्द्यां न भजसे निद्रां विवेकालोकयामिनीम् ॥ १८५ ॥
एकोऽपि पण्डितः कच्चित्तव रक्षामणिः श्रियः ।
मूर्खसङ्गभरेणेयं पृथ्वी मिथ्यैव पीड्यते ॥ १८६ ॥


१. 'पि' शा०.