पृष्ठम्:रामायणमञ्जरी.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

काश्मीरिकमहाकविश्रीक्षेमेन्द्रविरचिता

रामायणमञ्जरी।

बालकाण्डम्।

जितं भगवता तेन हरिणा लोकधारिणा । अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १ ॥ ज्येष्ठो जयति वाल्मीकिः सर्गबन्धे प्रजापतिः । यः सर्वहृदयालीनं काव्यं रामायणं व्यधात् ॥ २ ॥ स्वच्छप्रवाहसुभगा मुनिमण्डलसेविता । यस्मात्स्वर्गादिवोत्पन्ना पुण्या प्राची सरस्वती ॥ ३ ॥ नुमः सर्वोपजीव्यं तं कवीनां चक्रवर्तिनम् । यस्येन्दुधवलैः श्लोकैर्भूषिता भुवनत्रयी ॥ ४ ॥ पुरा मुनिः सभासीनः स यदृच्छागतं मुनिम् । कथाप्रसङ्गे पप्रच्छ प्रणयादिव नारदम् ॥ ५॥ लोकेऽस्मिन्सांप्रतं वीरः श्रीमान्कः सुकृतोज्ज्वलः । कीर्तिर्विराजते यस्य ज्योत्स्नेव रजनीपतेः ॥ ६ ॥ भूषिता सत्त्वशुभ्रेण जगती गुणशालिना । केन लक्ष्मीविहारेण हारेणेव वराङ्गना ॥ ७ ॥ प्रजानां जीवितं को नु लतानामिव माधवः । कुरुक्षेत्रं गुणानां च रत्नानामिव सागरः॥८॥ इति पृष्टो मुनीन्द्रेण नारदः प्रत्यभाषत ।

मुक्तामणिर्मनोर्वंशे चरितै रघुनन्दनः ॥ ९ ॥


१. सद्वृत्तः सद्गुणोचितः' इत्यपि पाठः केनापि पूरितः.