पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः।

गोदोहमात्रं यतिनां स्थितिर्गृहिगृहे श्रुतिः । एषा पुराणोति जगौ यत्किञ्चिद्दीयतामनः ॥ ३९ ॥ फलमूलान्युपादाय बहिर्यता यदा सती । तस्मा अर्पयितुं भिक्षा भिक्षवे स्वं जिघृक्षवे ॥ ४० ॥ तदानीं कुं विदार्यायं ससीतां स्यन्दनेऽद्रवत् । आरोप्याकाशमार्गेण श्वा पात्रीमिव हाविषीम् ॥४१॥ कोशन्तीं तां लक्ष्मणेति नीयमानां विहायसा । दृष्ट्या जटायुस्तिष्ठेति तं वदन्नभिजग्भिवान् ॥ ४२ ॥ त्रोट्या सनखया तस्य रथं चूर्णितवान् खगः । रिष्टिना तेन निहतः पक्षतौ निपपात कौ ॥ ४३ ॥ वियता नीयमाना सा बस्त्रखण्डेन भूषणम् । आमुच्याद्रिवसच्छाखामृगेषु स्वाङ्कमाक्षिपत् ॥ ४ ॥ अथाशोकवने शोकान्वितां सीता ररक्ष सः । अधिलङ्कं राक्षसीभिः संवृते शिंशपातले ॥ ४५ ॥ यदर्थमवतारो मे तत्कार्यमविचारतः । कार्यमेवेत्यात्मगतं रामोऽथागमदाश्रमम् ॥ ४६ ॥ मैथिलीरहितं दृष्ट्वा शिथिलोऽभूद्रघूत्तमः । प्लुतपोतो वणिगिव गतश्रेयसमाश्रमम् ॥ १७ ॥ प्रकृत्याऽविकृतो रामोऽनुजं वीक्ष्य विलप्य सः । तामन्वेष्टुं ययावग्रे विरही प्राकृतो यथा ।। ४८ ॥