पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

तं मायाविनमासाद्य स मृगं लक्ष्मणाग्रजः । आर्णाकृष्टबाणेन जधानोरसि साम्प्रतम् ॥ २९ ॥ हा लक्ष्मणेति निनदन् लक्ष्मणाग्रजलक्ष्मणा । लक्ष्मणाग्रजबाणेन विद्धो भूमौ पपात सः ॥ ३० ॥ श्रुत्वा तं निनदं सीता भीता मायाविनो मृगात् । गच्छ लक्ष्मण साहाय्यं कर्तुं भ्रातुर्महामृधे ॥ ३१ ॥ इत्युक्तोऽसौ तयोवाच देवरो मधुराक्षरैः । मायाबिनो राक्षसस्य निनदं विद्धि भामिनि ॥ ३२ ॥ राघवे प्रहरिर्धातुः प्रत्ययं याति कर्तरि । भावे चापि शुभाचारे न कर्मणि कदाचन ॥ ३३ ॥ तथापि चाग्रहात्तस्या लक्ष्मणोऽगादति हरेः । धनुषों रेखया रक्षा विधायोटजमार्गतः ॥ ३४ ॥ दृष्ट्राऽग्रजोऽनुज प्राप्तं नोचितं कृतमुक्तवान् । तेन सार्धमथागच्छत्पर्णशालां शनैः शनैः ॥ ३५ ॥ दशाननः समासाद्य छिद्रमेतज्जटा दुधत् । पटुः कषायपटवान् कपटे चोटजेऽविशत् ॥ ३६ ॥ कुण्डी विभ्रद्दण्डपाणिर्दण्डिरूपं विडम्बयन् । वेतण्डशुण्डादोर्दण्डः पाखण्ड इव मूर्तिमान ।। ३७ ॥ भिक्षां देहीति प्रोच्चार्य रेखातो बहिरास्थितः गृहाध्यक्ष प्रतीक्षस्व सीतयेत्युदितो यतिः ॥ ३८ ॥