पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजयः

इति श्रुत्वा दशग्रीवो श्रीवामुन्नम्य तद्वचः । उवाच भद्रे ब्रूहि त्वमभद्रकरणं कुतः ॥ ९ ॥ अवीवदत् शूर्पणखा मुखमाच्छाद्य पाणिना। अयोध्याधिपती राजा नाना दशरथः स्मृतः ॥ १० ॥ पुत्रौ तस्य समायातौ जनस्थानभरिन्दम । पितुराज्ञां पुरस्कृत्य विद्धि त्वं रामलक्ष्मणौ ॥११॥ तव स्वसारं मां ज्ञात्वाऽनुजो ज्येष्ठस्य शासनात् । दशामेतां. समनयद्यया स्यं छाद्यते भृशम् ॥ १२ ॥ द्वितीया तस्य चार्वङ्गी त्रिषु लोकेषु रावण । अद्वितीयाऽस्ति हर तां प्रसभं पुरुषो यदि ॥ १३ ॥ तदालाप समाकये हलाहलसमं गुणैः । स्वीचके ला समाबोध्य स्वकार्य सोऽन्वपद्यत॥ १४ ॥ बलवन्तं रिपुं ज्ञात्वा बलात्काराक्षमोऽसुरः । मारीचमिव सिंहात मारीचमगमन्द्रहः ॥ १५ ॥ आह स्म सत्कृतस्तेन राक्षसं तं स राक्षसः । कपटेन मृगो भूत्वा पट पञ्चबटीकुटीम् ॥ १६ ॥ मोहयः राघवं नोचेदन्मि त्वामसिनाऽमुना । बलाबलं स निश्चित्योमित्युक्त्वा मरणे ययौ ॥ १७ ॥ तपनीयमृगो वज्रशृङ्गो वैदूर्यलोचनः रत्नत्वग्विद्गुमशफो मायया राघवाश्रमम् ॥ १८ ॥