पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।। शीर्षाणि नागाः स्म नु कम्पयन्ति वयं कृतार्था इति सूचयन्तः। रामस्य जन्यैः सह संप्रयाता यतो विवाहे कृतपुण्यपुञ्जाः॥३९॥ व्यालो विलोक्यान्यगजान्प्रकुप्यन सितोऽपि सैछिन्नपदाप्रबन्धः तादृग्गजेन प्रहृतो जगाम शमं खलः शाम्यति यत्खलेना॥४०॥ बाहा रयैर्निर्जितगन्धवाहा उरोविशाला लघुकर्णशालाः। आवर्तयुक्ताः शुभशंसिशुक्तियुता निबद्धाः पटमण्डपेषु।४।। उत्तारिते पृष्ठत एव वाहाः पल्याणके क्षोणितले लुठित्वा । स्कन्धान्मुहुःसंदुधुवुः सपांशून् सशब्दभाण्डं परिधूतखेदम्४२ श्रीवृक्षकी वाजिवरः शुभंयुर्वक्षोभवावर्त्तचतुष्टयेतः । कण्ठे महावतविरोचमानः समीप एवाजिनृपस्य तस्थौ ॥१३॥ भारे समुत्तारित एव चोष्ट्रवृन्दं सदीयश्छदनं विहाय । आम्रादिकं निम्बपलाशमाद(चिर्विभिन्ना खलु जीवजाते.४४ उक्षाण उत्तारितभार एव तले निषण्णा धरणीनहाणाम् । रोमन्थकं चक्रुरलं श्रमेण चलत्कपोलंसुनिमीलिताक्षम||४|| पुण्याहघोषे समुदीर्यमाणे बशिष्ठमुख्यजिवर्यसङ्घः। संताध्यमाने पटहे समन्तात् सझल्लरीके मुरजादिमिश्रे ॥४६॥ दीपा:प्रदीप्ताः परितो महान्तः सचान्द्रकाः पुष्पकझल्लरान्ताः। चत्वार आसन प्रतिचकिचकंगजे गजे द्वौ प्रतिवाजि चैका४७ शीर्षे किरीटं करकङ्कणं च वपुष्यशेषेऽखिलभूषणानि । कौसुम्भवस्त्राणि विधाय रामो रराज सादित्य इवोदयाद्रिः॥४८॥