पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तमुत्थामुत्थाप्य प्रचुरदयया प्रातसुशिरा: कराभ्यां लम्बाभ्यां नयनकमले वारिकणिकाम् । विवस्वान् वस्वाल्या कमलमिव कान्त्या विधिसुतः समाकृष्याश्लिष्यद्गृहनिहितभूपाङ्कमुरसा ॥ ५० ॥ उपान्तेऽपां तेने निचयमसकृत्सारसदृशो- र्वृषीमध्यासीनो विधितनयदत्तामथ नृपः । उदन्तान् दन्ताधक्षरनियमितस्थानपटले प्रवक्तुं नाशक्नोन्मुनिरिक परानन्दनिभृतः ॥ ५१ ।। मुनीन्द्रोऽनिन्द्रोनं दशाविजयविख्यातयशसं प्रवक्तुं तं भूपं प्रहसितमुखोऽबोचदनघम्. प्रसन्नासन्नाय नृपनयचिदं भूरिमहसं प्रशंसन्तः सन्तः प्रमुदितमनस्काः समभवन् ।। ५२ ।। किमप्राप्यं प्राप्यं तव भवतु वर्तेत मनसि वद स्वान्ते लज्जा परिहर मुदं याहि तृपते । अकाम कामं वा कथयति गुरूक्तं हि सकलो बभाषे भूमीशो वचनमथ नजं हितकरम् ॥ ५३ ॥ अनन्ताऽनन्ताहः शिरसि निहितात्मा मम वशे समस्ता बर्तेत क्षितिपमणयोऽभी हि करदाः । अनल्पानल्पााः प्रवरमणयो में वशतया तथापीयं सम्पत्सुखयति न मां पुत्ररहितम् ।। ५४