पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः जलाहारो हा रोदनगतमते वा समुचित्तो विधेयः पश्चान्मे मुनिकथितदण्डः स सपदि। सुतस्तेऽतस्तेजोहत इति विषादं न कुरुता- दसारे संसारे नियमितसुखः कोऽन्धमवदत् ।। ६० ।। सुमन्दो मन्दोक्तो बहुविलपतोः स्त्रीपुरुषयो- र्गुणान् स्मार स्मारं सुतवपुषि विधान्तकरयोः । स शल्यं शल्यं वा हदि निहितमुद्धर्तुमसकृ- त्तयोरेकेनाशूच्छ्वसितहृतदयनाथ मुनिना ॥४१॥ समालोक्यालोक्याग्यवदनसुधांशोर्मुनितनू- द्भवस्यारेभेऽसौ शरमुरसि मनं नृपवरः ।। समुद्धर्तुं धतुं तमथ मुनिपुत्रो जिगमिषुः परं लोकं प्राप्तुं हरिपदमसूदूर्ध्वमनयत् ॥ ४२ ॥ अयाचद्याचन्तं श्रवणतनयादप्यपचिति करिष्ये त्वां नीत्वा नगरमधिकां दारसहितः प्रकामं काम ते विदधदिति भूपं मुनिवर- चितां योग्या कार्या पवनसुखयुक्तां हि भवता ॥४३|| सदारोदारोऽथ श्रवणमवरोष्य क्षितिभुजा कृतायां चित्यायां करनिहितनेत्रोत्थसलिलैः । वियोगे योगेन त्वमपि तन्यस्य क्षितिपति विनश्येः शप्त्वेति स्वयमपि विबेशशु म मुनिशाना रान