पृष्ठम्:रामकथामञ्जरी.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् । चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् । अब्रवीच्च तदा वाक्य द्युतिमान् स कृताञ्जलिः ॥८॥ भरतस्य राज्य एतत्ते सकलं राज्यं न्यासं निर्यासितम्मया । निवर्तनंनं राम- पूजिता मामका माता दत्त राज्यमिदं मम । स्य च तस्य तद्ददामि पुनस्तुभ्यं यथा त्वममदा यम" |८|| स्वीकरणम्। भरतस्य वचः श्रुत्वा रामः पर-पुरञ्जयः। तथेति प्रतिजग्राह निषसादा सने शुभे ॥८२।। प्रययौ रथ मास्थाय रामो नगर मुत्तमम् । जग्राह भरतो रश्मीन् शत्रुघ्न श्छत्र माददे ।।८३।। अभिषेकाय रामस्य शत्रुघ्नः सचिवै स्सह ! पुरोहिताय श्रेष्ठाय सुहृयश्च न्यवदेयत् ।।८४॥ राज्याभिषेकः। ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्न मये पीठे सह सीतं न्यवेशयत् ।।५।। (युग्मकम् ) विभीषणोऽथ सुग्रीवो हनूमान् जाम्बवां स्तथा । विभीषणादीनां सर्व-वानर मुख्याश्च रामेणा क्लिष्ट कर्मणा ॥८६॥ निवर्तनम्। यथार्ह पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः ( निखितम् ) निवेदितम् तुभ्यमिति शेषः । (निषसाद ) स्थितवान् ( रश्मीन् ) वागुराः। ( पीडे ) आसने ।