पृष्ठम्:रामकथामञ्जरी.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( -गवाक्षम् । (. रामरावणयो- ततो राक्षस-शार्दुलो विद्राव्य हरिवाहिनीम् । युद्धम्। मुमोच धनुरायम्य शरानग्नि-शिखोपमान् ॥६०॥ राघवो रावणं तूर्णं रावणो राघवन्तदा । अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः । गवाक्षितमिवाकाशम्वभूवः शरवृष्टिभिः ॥६१॥ सागरञ्चाम्बरप्रख्यमम्बरं सागरोपमम् । राम-रावणयोर्युद्धं राम-रावणयोरिव ॥१२॥ ततः शक्तिं महाशक्ति- प्रदीप्तामशनिमिव । विभीषणाय चिक्षेप रक्षसेन्द्र प्रतापवान् । अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ॥६३|| मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।. लक्ष्मणाय समुद्दिश्य विशेष च ननाद च ॥६४॥ शकत्या लक्ष्मण न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । मूर्च्छा। शक्त्या विभिन्न-हृदयः पपात भुवि लक्ष्मणः ॥६५॥ ( शोणितवित्र ) रक्त प्रवाहै। ( अग्नेः शिखा) बत् ( उपमा) प्रख्यम् ) प्रकाशतुल्यम् । ( राम-रावणयोरिति ) तयाथुद्ध' से समस्ते जगति न केनाण्युपमातुं शक्यते इति भावः । ( अशनि ) वनम् । (विभिन्न हृदयः ) विदीर्ण हृदयः