पृष्ठम्:रामकथामञ्जरी.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

"घर्मात्मा सत्य-सन्धश्च रामो दाशरथिर्यदि । पौरुषे चाप्रतिद्वन्द्वः शरैर्न जहि रावणिम् ॥५३॥ इत्युक्त्वा वाणमाकर्ण विकृप्य तमनिममम् ।। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥५४॥ स शिरः सशिरस्त्राणं श्रीमज्ज्वलित-कुण्डलम् । प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥५५॥ यथास्तंगत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिनिपतिते राक्षसास्ते गत्ता दिशः ॥५६॥ रावणः पुत्रशोकेन भृशमाकुल-चेतनः । अब्रवीच्च स तान् सर्वान् बल-मुख्यान् महा-बलः। "एक रामं परिक्षिप्य समरे हन्तुमर्हथ" ॥५७॥ इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः । निर्ययुस्तै स्थैः शीघ्रैः नागानीकैश्च संयुताः॥१८॥ एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः । रक्षसां वानराणाञ्च शान्तं शोणित-विस्रवैः ॥५९॥ ( अमति द्वन्द्वः ) अप्रतिमा ( भाकर्णम् ) कार्यन्तम् । { अजिबागम् ) अकुटिलगति । ( सर्ज) क्षिप्तवान् । (सशिरस्त्राणाम् ) शिर-खाण-सहितम् । प्रमध्य) संचूर्य । ( परिक्षिप्य ) परितो- निरुवा (नागानासनीकैः) सेनाभिः।