पृष्ठम्:रामकथामञ्जरी.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥४५॥ स रथेनाग्नि-वर्णेन बलवान् रावणात्मनः ।। रामपक्षे विभी- अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥४६॥ षणं दृष्ट्वा "शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । मेघनादस्य यस्त्वं स्वजनमुत्सृज्य पर-भृत्यत्वमागतः ॥४७॥ तन्निन्दा। गुणावान्वा पर-जनः स्व-जनो विगुणोऽपि वा। निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः॥४६॥ इत्युक्तो भ्रात-पुत्रेण प्रत्युवाच विभीषणः । "धर्मात्प्रच्युत-शीलं हि पुरुषं पाप-निश्चयम् । त्यक्त्वा सुखमयाप्नोति हस्तादाशग्निविषं यथा ॥४९॥ विभीषण-वचः श्रुत्वा रावणिः क्रोध-मूर्छितः । ससर्ज निशितान् बाणान् इन्द्रजित् पर-वीरहा।।१०।। लक्ष्मणस्यः ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । मेघनादवधः। चिच्छेद् कार्मुकं तस्य दर्शयन् पाणि-लाघवम् ।।५।। अथैन्द्रमख द्युतिमत् संयुगेष्वपराजितम् शर-श्रेष्ठं धनुःश्रेष्ठे विकर्षन्निदमब्रवीत् ॥५२॥ युद्धमासीदिति शेषः । ( आशीशियम् ), सर्पम् । परेषां धीरान हन्ति इति । परवीरहा । ( कार्मुझं ) अनुः । ( पाणिलायन ) हस्त- प्रयोग चातुर्यम् । संयुगेषु.) युद्धक्षु