पृष्ठम्:रामकथामञ्जरी.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 6 ) अथाददे सूर्य-मरीचि-कल्पम् स ब्रह्म-दण्डांतक-काल-कल्पम् । अरिष्टमैन्द्रं निशितं तुरङ्गम् . रामः शरं मारुत-तुल्य बेगम् ।। चकर्त रक्षोधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥४२॥ श्रुत्वा विनिहतं संख्ये कुम्भकर्ण महाबलम् । रावणः शोक-सन्तप्तो मुमोह च पपात च ॥४३॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम् । रथर्षको राक्षस-राज-सूनु- स्तमिन्द्र-जिद्वाक्यमिदं बभाषे "अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥४४|| समास्थाय महा-तेजा रथं हरि-रथोपमम् । ( सूर्य-मरीचि कल्पम् ) सूर्य-रश्मि समम् ... (अरिष्टम् ) शणामशुभ प्रदभू । ६. ऐन्द्रम् ) इन्द्र देवताकम् । ( संपरिपुप्लुबानम् ) जिटः कानन्। ( रश्रर्षभः ) रथस्थानां श्रेष्ठः । (हरिरथोपमम् इन्द्ररथ-समम्। मन्नम् ।