पृष्ठम्:रामकथामञ्जरी.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रावणस्य प्रति- इति प्रतिसमादिश्य राक्षसेन्द्र पुनः पुनः । निवर्तनम् ज्वलद्भास्कर-वर्णाभं प्रविवेश निकेतनम् ॥३०॥

               हनूमानपि विक्रान्तः सर्व शुश्राव तत्त्वतः ।
              ततो बहुविधां चिन्तां चिन्तयामास धर्मवित् ॥३१॥

हनुमत्ता कथं । अनेन रात्रि-शेषेण यदि नाश्वास्यते मया। सीतायैस्वप- सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥३२॥ रिचयं दद्या- यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । मिति चिन्ता रावणे मन्यमाना मां सीता भीता भविष्यति ॥३३॥ परित्यागश्च वैदेह्या भवेदनभिभाषणे । विपन्नं स्यात्तदा कार्य्यं रामसुग्रीवयोरिदम् ॥३५॥

न विनश्येत्कथं कार्य्यं वैक्लव्यं न कथं भवेत् ।

लङ्घनञ्च समुद्रस्य कथं नु न वृथा भवेत् । इति सञ्चिन्त्य हनुमान् चकार मतिमान्मतम् ॥३५॥ "राममक्लिष्ट-कर्माणं स्वं बन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्वन्धु-गत-मानसाम् ।।३६।। (उचलतः ) दीप्यमानस्य । भालकरस्य वर्णस्य ) इव ( आमा प्रभा यस्य तत् । (संस्कृताम् ) भाषा-व्याकरण-नियम-शुद्धाम् । विपन्नम् ) विनष्टम् (तस्मिन् ) बन्धौ रामे (गत मानसम् यस्यास्ताम्।