पृष्ठम्:रामकथामञ्जरी.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वपि च समेत्य ललन्तु बान्धवास्ते" ॥२२॥ सीतायाः राव तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । ण-भर्त्सनम् । आर्ता दीन-स्वरा दीनं प्रत्युवाच ततः शनैः ॥२३॥

               इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।

तथा हि विपरीता ते बुद्धिराचार-वर्जिता ॥२४॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा ॥२५॥ नूनं न ते जनः कश्चिदस्मिनिःश्रेयसि स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥२६॥ इमे ते नयने क्रूरे विरूपे कृष्ण-पिङ्गले । सितौ न पतिते कस्मात्मामनार्य निरीक्षतः । कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति ॥२७॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । सन्ददर्श ततः सर्वा राक्षसीर्घोर-दर्शनाः ॥२८॥ यथा मद्वशगा. सीता क्षिप्रं भवति जानकी। तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥२९॥ 16 ( ललन्तु ) प्राप्त समस्तसिताः भवन्तु । (अनन्या ) भेदरहिता । (व्याहरतः ) उक्तवतः । मम वशं गच्छति इति ( महशमा) ।