पृष्ठम्:रामकथामञ्जरी.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वीता- नदी चेमां शुभ-जलां संध्यार्थे वर-वर्णिनी ॥१॥ यदि जीवति सा देवी ताराधिष-निभानना ! आगमिष्यति सावश्यामिमां शुष-जलां नदीम् ॥११॥ (युग्मकम् ) हनूमतः सीतादर्शनम् - ततो मलिन संवीतां राक्षसीभिः परिवृताम् । उपवास-कृशां दीनां निश्वसन्तीं पुनः पुनः ॥१२॥ अश्रु-पूर्ण-मुखीं दीनां कृशामशनेन च ।

कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशाः।

ददर्श शुक्-पक्षादौ चन्द्र-लेखामिवामलाम् ॥१३॥ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् तर्कायामास सीतेति कारणैरुपपादिभिः ॥१४॥ 'मणि-विद्रुम-चित्राणि हस्तेष्वाभरणानि च । तान्येवैताजि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥१५॥ अस्यौ देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम् । वर-वर्णिनी) श्रेष्ठ-नवाचारिणी । ताराणामधिपः) चन्द्र- स्तत् ( विनम् ) तत्सद्रशम् (आननम् ) यस्याः सा । (मंजिन-संवी- ताम) मलिन-वस्त्र धराम् । अनुशनेन ) अनाहारेण । (विति- मिदा ) अन्धकार सहिताः । ( अमलाम् ) मल-रहिताम् । ( मणी- ना विद्रुमाणां च ) यानि तस्याः अङ्गेषु (चित्राणि ) । (अवकीर्त- यत् ) वर्णितवान् ।