पृष्ठम्:रामकथामञ्जरी.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुन्दरकाण्डम् हनुमतः जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् लङ्काप्राप्तिः। प्रविवेश पुरीं रम्यां प्रविभक्त-महा-पथाम् । आससाद च लक्ष्मीवान् राक्षसेन्द्र-निकेतनम् ॥१॥ मार्गमाणस्तु वैदेहीं सीतामायत-लोचनाम् । सर्वतः परिचक्राम हनूमान् हरि-लोचनः ॥२॥ तत्र दिव्योपमं मुख्यं स्फाटिकं रत्न-भूषितम् । अवेक्षमाणः हनुमान ददर्श शयनासनम् ॥३॥ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् । तयामास 'सीतेति' रूप-यौवनसम्पदा ॥४॥ (आससाद ) ( राक्षसेन्द्रस्य) राक्षस-राजस्य रावणस्य । (निवेशनम् ) गृहम् । (आयते) विस्तृते ( लेचिने ) यस्यास्ताम् । (परिचनाम) परिभ्रान्तवान सफाटिकम् ) स्फटिक निर्मितम् (दिव्यन) स्वर्गीयपदार्थन सादृश्य यस्य ततः उपमा