पृष्ठम्:रामकथामञ्जरी.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । तद्यथा लभ्यते सीता तत्त्वमेवानुचिन्तय" ॥२६॥ ददौ तस्य ततः रामः स्वनामाङ्कोपशोभितम् । अङगुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥२७॥ तदुग्र-शासनं भर्तुर्विज्ञाय हरि-पुंगवाः । शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥२८॥ ताराङ्गदादि-सहितः प्लवगः पवनात्मजः । प्रतस्थे हरि-शार्दूलो दिशं वरुण-पालिताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥२९॥ भ्राता जटायुषः श्रीमान् विख्यातवल-पौरुषः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३०॥ वानराणां स- " इतो द्वीपे समुद्रस्य संपूर्णे शत-योजने म्पातेः सीता- अस्ति लङ्का-पुरी रम्या निर्मिता विश्वकर्मणा। प्रवृत्तिमाप्तिः । तस्यां वसति वैदेही दीना कौशेय-वासिनी ॥३१॥ (अभिज्ञानम् ) अभिज्ञान-साधनभूतम् । ( संपतस्थिरे । पस्थिताः । वरुण पालिसा ) वारुणीम्, पश्चिमाम् । ( व्यतिक्रान्तः) समासः ( समयः ) कालावधिः । (जटायुषः भाता) सम्पातिः । ( गिरम् ) वाचम् । ( कौशेयवासिनी ) पट्टवस्त्र-धरा।