पृष्ठम्:रामकथामञ्जरी.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुग्रीवो राघवं वाक्यमित्युवाच प्रह्रष्टवत् । " अहं विनिकृतो राम, चरामीह भयार्दितः ॥१३॥ हत-भार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । वालिनो मे महाभाग, भयार्तस्याभयं कुरु" ॥१४॥ राम-सुग्रीव- प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निवः । योः परस्पर-" वालिनं तं वधिष्यामि तव भार्यापहारिणम्" ॥१५॥ साहाय्य- सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत् । अहमानीय दास्यामि तव भार्यामरिन्दम ॥१६॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च इदं पश्येति " रामाय दर्शयामास वानरः ॥१७॥ सर्वे ते त्वरितं गत्वा किष्किन्धां बालिना पुरीम् वृक्षैरात्मानमावृत्त्य ह्यतिष्ठन् गहने वने ॥१८॥ रामस्य तमथोवाच सुग्रीवं वचनं शत्रु-सूदनः । बालिवधः "सुग्रीव, कुरु तं शब्दं निष्पतेद्यीन वानरः ॥१९॥ प्रतिज्ञा (शिनिकता) निस्तारित (भार्थोऽपहारिणम् ) बीहारकम् ( उत्तरीयम् ) वन-विशेषम् । ( आनुस्य ) आच्छाध । ( मिष्यतेत् । निकाम्येत्