पृष्ठम्:रामकथामञ्जरी.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥२५॥ न नूनं बुध्यसे राम महा-बीर्यं गुणोन्नतम् । रामाग्निं सहसा दीप्तं न प्रदेष्टुं त्वमर्हसि ॥२६॥ न त्वं समर्थस्तां हर्तुं राम-चापाश्रयां बने यदीच्छसि चिरं भोक्तुं मा कृथा राम-विप्रियम् ॥२७॥ किन्तु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर "|२८|| मारीटस्य मनोहरं दर्शनीय रूपं कृत्वा मृगस्य सः । मृगरूपेण प्रलोभनार्थ वैदेह्या नाना धातु-विचित्रितम्। क्रीडनम् रामाश्रम-पदाभ्याशे विचचार यथासुखम् ॥२९॥ अदृष्ट-पूर्व तं दृष्ट्वा नाना-रत्न-मयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥३०॥अप्रियायेत्यादि) तत्कालप्रियलया प्रतीयमानस्यापि कालान्तरे हितकरस्य वचसो बता तस्य च होता. दुभाग्यः । (अप्रमेयस्) अपरिच्छेधः । (शिशु शक्यमित्यादि ) त्वयि एवं दुरात्मनि सति मया किं कर्तुं शक्यते, न किमपीत्यर्थः । अन्याशे) समीपे