पृष्ठम्:रामकथामञ्जरी.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ मास्थधर्मे मनो भूवादधर्म स निपेवताम् । अपात्रवर्षी भवतु यस्यायोऽनुमते गतः ॥१५९॥ उभे सन्ध्ये शयानस्य यत्पार्थ परिकल्प्यते । तञ्च पापं भवेत्तस्य यस्याज्नुिमते गत्तः ॥१६॥ देवतानां पितृणां च मातापिनोस्तथैव च । मास्म कात्सि शुश्रूषां यस्यार्योऽनुमते गतः "॥१६१ तपेवं शोक-संतप्तं भरतं कैकेयी सुतम् । उवाच वदतां श्रेष्ठो वसिष्ठों भगवानृषिः ॥१६२|| 'अलं शोकेन भद्रन्ते राज-पुत्र महा-यशः । प्राप्त-कालं नरपतेः कुरु सँयानमुत्तमम् ॥१६॥ वशिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । प्रेत-कार्याणि सर्वाणि कारयामास धर्मवित् ॥१६॥ प्रजानां भरताय राज्य-समर्पणम् ततः प्रभात-समये दिवसेऽथ चतुर्दशे । समेत्य राज्यकारी भरतं वाक्यमब्रुवन् ।।१६५।। 'त्वमद्य भव नो राजा राजपुत्र, महायशः । (अपात्र वर्षी ) कुपात्रे दाता । (परिकल्प्यते ) प्राप्नोति । ( संघान.)प्रेत-निर्वाहम् । ( धारणां ) धैर्यम् ।