पृष्ठम्:रामकथामञ्जरी.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौशल्या-भरतयोः रामविवासनविषये संवादः स तु राजात्मजथापि शत्रुघ्न-सहितस्तदा । प्रतस्थे भरतो येन कौशल्याया निवेशनम् ॥१५२|| भरतं प्रत्युवाचेदं कौशल्या यशदुःखिवा । “इदं ते राज्य कामस्य राज्य प्राप्तमकण्टकम् " ॥१५३॥ एवं विलपमानां तां प्राञ्जलिर्भरतस्तदा । कौशल्या प्रत्युवाचेदं लाहुभिरावृताम् ॥१५४॥ कृत-शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन । सत्य-संघा सता श्रेष्ठो यस्यायोऽनुमते गतः ॥ १५५ परिपालयमानस्य राज्ञो भूतानि सुत्रवत् । ततस्तु गुह्यतां पाप यस्यायोऽनुमते गतः ॥१५॥ पुत्रैर्दासैश्च भृत्यैश्च स्वगृहे परिवारितः । स एको मिष्टमन्नातु यस्याथ्योऽनुमते गतः ॥१५॥ संग्रामे समुपाढे च शत्रु-पक्ष-भयङ्करे। पलायमानो बध्येत यस्यार्योऽनुमते गतः ॥१५८॥ येन कौशल्याया निवेशनं प्राप्यते इत्यर्थः । ( अकण्टकम् )रिपु-रहितम् । (कृत शास्त्रानुगा ) गुरुशिक्षित-श्रुति-स्मृति-मार्गगा।( मनुमते ) सम्मतौ। (दुह्यतां ) तस्मै इति शेषः । ( समुपोहे ) प्राप्ते (शत्रुपक्षाणां भयंकरोतीति | तादृशे।