पृष्ठम्:रामकथामञ्जरी.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वशिष्ठस्य भरतानयनाय दूतसम्प्रेषणम् वसिष्ठे नाभ्यनुज्ञाता दूताः सन्त्वरितास्तदा । ययुश्चाः सह्य-परिखं रम्य राज-गृह पुरम् ।।१४५।। राज्ञः पादौ गृहीत्वा तु तसूचुरितं वचः । "पुरोहितस्त्वां कुशलं माह सर्वे च मन्त्रिणः ।' त्वरमाणश्च नियाहि कृत्यमात्यायिक त्वया ॥१४॥ स मातामह मामन्त्र्य मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्न-सहितो ययौ ॥१४७|| भरतस्यायोध्याप्राप्तिः तां पुरीं पुरुष-ध्यानः सप्त-रात्रोषितः पथिः । अयोध्यामप्रतोदृष्ट्वा सारथिं वाक्यमब्रवीत् ॥१४॥ "एषा नाति प्रतीता में पुण्योद्याना यशखिनी। अयोध्या दृश्यते दुरात् सारथे पाण्ड-मृचिका ॥१४९ भरत-विलापः श्रुत्वा च स पितुर्वृत्तं भ्रातरौ च विवासिता । भरतो दुःख-सन्तप्त इदं वचनमब्रवीत् ॥१५०॥ कि नु कार्यं हतस्येह मम राज्येन शोचतः । विहीनस्याथ पित्रा च भ्रात्रा पितृ-समेन च" ॥१५॥ ( असंह्या ) दुस्सहा ( परिखा) यस्य तत् । ( अत्यधिकम् )कालातिक्रमासहम् । (नातिप्रतीता.) नाति दृष्टा, निरानन्दत्वात् ।(पाण्डु-मृत्तिका समा) । (हतस्य ) भाग्यहीनस्य ।