पृष्ठम्:रामकथामञ्जरी.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

44 राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् । अश्रु-पूर्ण-सुखं दीनमुवाच परमावत् ॥१३८॥ 'सुकुमार्या तपखिन्या सुमन्त्र सह सीतया । राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥१३९।। अतोनु किं दुःखतरं योहमिक्ष्वाकु-नन्दनम् । इमामवस्थामापनो नेह पश्यामि राघवम् " ॥१४॥ दशरथस्य मरणम् इति रामस्य मातुश्च सुमित्रायाश्च सनिधौ । राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥१४१॥ तमग्निमिव संशान्तमम्बु-हीनमिवार्णवम् । हत-प्रधमिवादित्यं स्वर्गस्थ प्रेक्ष्य पार्थिवम् । सर्वे द्विजाः सहामात्यैः पृथग्याच मुदीरयन् ॥१४२॥ 'इक्ष्वाकूणामिहाद्य व कश्विद्राजा विधीयताम् । अराजक हि नो राष्ट्र न विनाशमवाप्नुयात् ॥१४३॥ ना राजके जनपदे स्वकं भवति कस्यचित् । मत्स्या इच जना नित्यं भक्षयन्ति परस्परम् " ॥१४४॥ (ध्वस्तांगम् ) धूसरिताङ्गम् । ( अराजकम् ) नियन्तृरहितम् । स्वकम् ) स्वकीयम् ।