पृष्ठम्:रामकथामञ्जरी.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपश्यच्छोक-सन्तप्तं चिन्ता व्याकुलितेन्द्रियम् ।।९९॥ तां दृष्ट्वा सहि धर्मात्मा न शशाक मनोगतम्।। तं. शोक राघवः सोढुं ततो विवृततां गतः ॥१०॥ सीते तत्रभवां स्तात: प्रवाजयति मां वनम् । सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥१०१।। सा त्वं वसेह कल्याणि राज्ञः ससनुवर्तिनी भरतस्य रता धर्म सत्य-व्रत-परायणा ॥१०२॥ सीतायाः सह-गमनाय प्रार्थनम् एवमुक्ता तु वैदैही प्रियाहाँ प्रिय वादिनी । प्रणयादेच संकुद्धा भत्तारमिदमब्रवीत् । “नय माँ वीर विस्तब्ध पाएं मयि न विद्यते ॥१०॥ किं त्वा मन्यत वैदेहः पिता में जगतीपतिः । राम जामातरं प्राप्य स्त्रियं पुरुष-विग्रहम् ॥१०४॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । (विवसतां गतः) विवृताभिप्रायं गतः स्वाभिप्रायं प्रकाशित वानित्यर्थः । ( तत्र-भवान्) पूज्यः । (समनुवर्तिनी ) अनुकूला प्रियार्हा) प्रिय-भाषणयोग्या । (प्रणयात् ) स्नेहात् । (पापम् । अपराधः । (स्त्रियं पुरुषविग्रहम् ) आकारेण पुरुषं क्रियया तु स्त्रीरूपम् । (किं हि कृत्वा ) किं मनसि विचार्य