पृष्ठम्:रामकथामञ्जरी.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौशल्याया:वनगमनान्निषेधः " न चाधयं वचः श्रुत्वा सपत्न्या मम भाषितम् । -विहाय शोक-सन्तप्तां गन्तुमर्हसि मामितः ॥१३॥ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् । त्वां साहं नानुजानामि न गन्तव्यमितोवनम् " ॥१४॥ रामस्य कौशल्या सम्बोधनम् -उवाच भूयः कौसल्या प्राञ्जलिः शिरसा नतः । " नास्ति शक्तिः पितुर्वाक्यम् समतिक्रमितुं मम । अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।।९५।। यावञ्जीवति काकुत्स्थः पिता भे जगती-पतिः । शुश्रूषा क्रियतां तावदेष धर्मः सनातनः" ॥९॥ एवमुक्ता तु रामेण वाष्प-पाकुलेक्षणा । सापनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी ॥१७॥ रामस्य सीतासमीपे गमनम् प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् । प्रहृष्ट-जन-सम्पूर्ण हिया किश्चिदवाङ्मुखः ॥१८॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । (अधर्म्यम् ) धर्म-विरुद्धं, कनिष्ठस्य राज्य प्राप्ति-रूपम् अनुमन्यस्व) आज्ञापय । ( उपस्पृश्य ) आचम्य । (आयासम्) राम-वियोगजं दुःखम् । ( सीता कथं. मया बिना स्थास्यति ) इति चिन्ता