पृष्ठम्:रामकथामञ्जरी.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामस्य मातृ-गृह-गमनम् 'जगाम सहितो मात्रा मातुरन्तःपुरं वशी। ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥८६॥ सा चिरस्यात्मजं दृष्टया माल-नन्दन मागतम् अभिचक्राम संहृष्टा किशोर वडवा यथा ॥८७॥ परिष्वक्तश्च बाहुभ्यामुषघातश्च मूर्ध्नि । दत्तमासनमालम्ब्य भोजनेन नियन्त्रितः । मातरं राघवः किञ्चिद् ब्रीडात प्राञ्जलिरब्रवीत् ।।८८॥ रामस्य मात्रे स्व-निर्वासवृत्त श्रावणम् "भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये वाजयति तापसम् । चतुर्दश हि वर्षाणि वस्तव्यं विजने वने" ॥८९॥ तद्वृत्तं श्रुत्वा कौशल्या मूर्छा सा निकृत्तेव सालस्य यष्टिः परशुना दने। पपात सहसा देवी देवतेच दिवश्च्युता ॥९॥ वामदुःखाचितां दृष्ट्वा पतितां कदलीमिव । रामस्तूत्थापयामास मातरं गत-चेतसम् ॥११॥ स राघव मुपासीनमसुखार्ता सुखाचिता। उवाच पुरुष-व्याधमुपपृण्वति लक्ष्मणे ॥१२॥ (वशी) जितेन्द्रियः (भिचाकाम) अभिमुखं जगाम । प्रमामयति ) प्रेषयति । (निकृत्ता) छिन्ना । (यष्टिः )शाखा। दिवश्च्युता ) आकाशात् पतिता (असुखार्ता) सुखनाशेनार्ता।