पृष्ठम्:रामकथामञ्जरी.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अयोध्याकाण्डम् भरतशत्रुभयोः भरत-मातुलगृह-गमनम् गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः भीति-पुरस्कृतः ॥१॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः । प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥२॥ राम-यौवराज्यविचारः वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः । मत्तः प्रियतरो लोके पर्जन्य इव दृष्टिमान् ॥३॥ तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः शीघ्रं परिषदं सर्वायामन्य वसुधाधिपः । हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥४॥ "इदं शरीरं कृत्स्नं लोकस्य चरता हितम् । पाण्डुरस्यातपत्रस्य छायायां जरितम्मया ॥५॥ { अनघः पापरहितः । (नित्यशत्रुघ्नः ) नित्यशत्रवः कामादयस्तद्धन्ता । ( प्रीति पुरस्कृतः भरत-विषयक-स्नेह युक्तः। ( प्रीतिः) चिन्ता । ( पर्जन्यः ) मेघः (समुदितैः) स्वाभाविकैः । ( उद्धर्षणम् ) हर्ष-जनकम् । (चरता) कुर्वता । ( पाण्डुरस्य ) श्वेतस्य । ( आत-पत्रस्य) छत्रस्य