पृष्ठम्:रामकथामञ्जरी.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मम कौशिक भद्रन्ते अयोध्या त्वरिता रथैः राजानं प्रश्रितैर्वाक्यै रानयन्तु पुरं मम" ॥६॥ जनकेनायोध्यां प्रति दूतप्रस्थापनम् जानकेन समाविष्टा दूतास्ते क्लान्त-वाहनाः । ददृशुर्देव-संकाशं वृद्धं दशरथ नृपम् । तञ्चैव प्रश्रितं वाक्यमब्रुवन्मधुराक्षरम् ॥६५।। "पृष्ट्वा कुशलमव्यग्रं वैदेहा मिथिलाधिपः । कौशिकानुमते वाक्यं भवन्त मिदमब्रवीत् ॥६६॥ तद्वै रत्नं धनुर्दिव्यं मध्ये अग्ने महात्मना । रामेण हि महाराज महत्यां जन-संसदि ॥६॥ अस्मै देया मया सीता वीर्यशुल्का महात्मने । प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातु मर्हसि " ॥६८|| दूत-वाक्यं तु तच्छुत्वा राजा परम हर्षितः । गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ॥६९॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम् । दशरथाप्राप्तिः मुदितो जनको राजा हर्षं च परमं ययौ । प्रश्रितैः विनययुक्तैः । ( अव्यग्रं) व्यप्रतां विहाय । कौशिकानुमते विश्वामित्रानुमत्या । (जनसंसदि जनानां सभायाम् चतुरहस्) चतुर्दिनपर्यन्तम् । ( अभ्युपेयिवान् ) प्राप्तः