पृष्ठम्:रामकथामञ्जरी.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनि-पुङ्गवम् ॥३१॥ 'अहो बनमिदं दुर्ग झिल्लिका-गण-नादितम् संकीर्ण वंदरीभिच किन्वेतदारुणं वनम् ॥३२॥ तमुवाच महातेजा विश्वामित्रो महामुनिः । ताटका नाम भगन्ते पाऱ्यां सुन्दस्य धीमतः । इमौ जनपदौ नित्यं विनाशयति राघच ॥३३॥ सेयं पन्थानमावार्य वसत्यध्य-योजने । स्वबाहु-वलमाश्रित्य जहीमा दुष्टचारिणीम् ॥३४॥ नहि ते स्त्री-वध-कृते घृणा काश्या नरोत्तम । चातुर्वर्ण्य-हितार्थञ्च कर्तव्य राज-मनुना" ॥३५॥ मुनेर्वचनमक्लीवं श्रुत्वा नृप-वरात्मजः । ज्या-घोप मकरोत्तीनं दिशा शब्देन नादयन् ॥३६॥ ते शब्दमभिनिध्याय राक्षसी क्रोध-मूर्छिता । श्रुत्वाचाभ्य द्रवद्वेगाद् यतः शब्दो विनिःसृतः। ३.७१। (अविप्रहतम् ) जनसञ्चाररहितमतोऽक्षुण्णम् । ( झिल्लिका) कोटविशेषः । ( दुष्टचारिणीम् ) दुराचारिणीम् । ( अलोचम् ) धृष्टम् (तं शब्दं श्रुत्वा अभिनिध्याय ) इत्यादयः अभिनिध्याय) शब्द-देश निश्चित्य।