पृष्ठम्:रामकथामञ्जरी.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(युग्मकम् ) 'कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिपूजितम् ॥२५॥ स पुत्रं मूर्ध्न्युपाधाय राजा दशरथः प्रियम् । ददौ कुशिक-पुत्राय सुप्रीतेनान्तरात्मना ॥२६॥ विश्वामित्रो ययावग्रे ततोरामों धनुर्धरः । काक-पक्ष-धरो धन्वी तं च सौमित्रिरन्वगात् ॥२७॥ अध्यर्ध-योजनं गत्वा सरवा दक्षिणे तटे । रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषतः ॥२८॥ राममन्त्रशिक्षणम् "मन्त्रग्राम गृहाण त्वं बलामतिबला तथा । एतद्विद्या-द्वये लब्धे न भवेत्सदृशस्तव" ॥२९॥ रामेण ताडकावधः ततो रामो जलं स्पृष्टं वा प्रहृष्ट-वदनः शुचि । प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥३०॥ संबन घोर-संकाशं दृष्ट्वा नृप-वरात्मजः । कृतस्वस्त्ययनम् ) कृतमङ्गलम् । ( पुरोधसा ) पुरोहितेन । (धन्वी) धनुर्विद्याकृतश्रमः । ( अन्वयात ) अनुजगाम । (अध्यर्ध-योजनम् ) अर्धाधिकयोजनम् । मन्त्रग्रामम् ) बलाबलविद्या-संक्षक मन्त्र-समूहम्' । ( भावितात्मनः ध्यातात्मस्वरूपात । (घोरसंकाशम् ) भयानक दर्शनम् ।