पृष्ठम्:रामकथामञ्जरी.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तच्छ्रुत्वा राज-सिंहस्य वाक्यमद्भुत-विस्तरम् । हष्ट-रोमा महातेजा विश्वामित्रोऽभ्यभाषत ।।१९।। “यतु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्य-अतिश्रवः ॥२०॥ अहं नियममातिष्ठे सिद्धयर्थ पुरुषर्षभः । तस्य विघ्नकरौ द्वौ तु राक्षसौ काम-रूपिणौ । मारीचश्व सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥२१॥ स्वपुत्रं राज-शार्दूल, राम सत्य-पराक्रमम् । काकपक्ष-घरं शूरं ज्येष्ठं मे दातुमर्हसि ॥२२॥ शक्तो ह्येश मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा ये विकर्माण स्तेषामपि विनाशने ॥३॥ रामस्य प्रस्थानम् तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् प्रहृष्ट-वदनाराममाजुहाव सलक्ष्मणम् ॥२४॥ (अद्भुतविस्तरम् ) दैवतं हि भवान्ममेत्यादियुक्ति-रूपमाश्चर्यं प्रपञ्चम् । तस्य) तद्वाक्य प्रतिपाद्यस्य । ( निश्चयम् ) करिष्यामीति अङ्गीकारम् । ( सत्यप्रतिश्रवः ) सत्यप्रतिज्ञः। ( आतिष्ठे) आस्थितोऽसि । कामरूपिणौ) यथेच्छारूपधारिणौ । काकपक्षधरम् ), बालानां कपोलसमीय शिखा काकपक्षः। विकर्माणः) विघ्नकर्तारः। आजुहआव) आहूतवान्।