पृष्ठम्:रामकथामञ्जरी.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशरथस्य यज्ञ-प्रारम्भः ततो वशिष्ठ-प्रमुखाः सर्व एव द्विजोत्तमाः ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥६॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥७॥ समाप्त-दीक्षा-नियमः पली-गण-समन्वितः । प्रविवेश पुरी राजा सबत्य-बल-वाहनः ॥८॥ ततश्च द्वादशे मासे चैत्र नावषिक तिथी। पुत्रोत्पत्तिः कौशल्याजनयद्राम सर्व-लक्षण-संयुतम् । भरतोनाम कैकेय्यां जज्ञे सत्य-पराक्रमः ॥९॥ अथ लक्ष्मण-शत्रुघ्नौ सुमित्राऽजनयत्सुता। उत्सव महालासीदयोध्याय जनाकुलः ॥१०॥ युग्मकम् ] अतीत्यैकादशाहं तु नाम-कम तथाकरोत् । ज्येष्ठं राम महात्मानं परत कैकेयी-सुतम् ॥११॥ सौमित्रि लक्ष्मणमिनि शत्रुघ्नमपरन्तथा । वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥१२॥ { आरभन् ) छान्दसम् । (पुत्रीयां) पुत्र-प्राप्ति हेतुभूताम् । (समाप्तदीक्षा नियमः ) समाप्तो दीक्षार्थो नियमो यस्य । ( नावमिके तिथौ) नवम्यां तिथौ ।। सत्यपराक्रमः ) सत्यः कापट्यरहितः पराक्रमः यस्य । ( जनाकुलः ) जनैः आकुल व्याप्तः ।