पृष्ठम्:रामकथामञ्जरी.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राम-कथा-मंजरी (बालकाण्डम् ) अयोध्या- वर्णनम् कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयुतीरे प्रभूत-धन-धान्य-वान् ॥११॥ अयोध्या नाम नगरी तत्रासील्लोक-विश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥२॥ तस्यां पुर्यामयोध्यायां वेद-वित्सर्व-संग्रहः । राजा दशरथा नास लोकस्य परिरक्षिता ||३|| नानाहिताग्निर्नायज्वा न क्षुद्रो ल च तस्करः । कश्चिदासीदयोध्यायां न चाहत्तो न संकरः ॥४॥ तस्य चैव-प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंश-करः सुतः ॥५॥ मुदितः ) सन्तुष्टजनः । (स्फीतः ) उत्तरोत्तर वृद्धिंगतः। ( मानवेन्द्रेण ) मनुष्य-स्वामिना । (सर्वसंग्रहः ) सर्वेषामपरिमित-बल-राष्ट्र-दुर्गादीनां संग्राहकः (अनाहिताग्निः) अजस्राग्निहोत्ररतः। (अयज्वा) यागरहितः। ( अवृत्तः ) सदाचाररहितः । ( एवं- प्रमावस्य) एवं वर्णितः प्रभावो यस्य । (तप्यमानस्य ) एवंविधैश्वर्य- वत्वेऽपि परितप्यमानस्य