पृष्ठम्:रामकथामञ्जरी.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशरथस्य यज्ञ-प्रारम्भः ततो वशिष्ट-प्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥६॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥७॥ समाप्त-दीक्षा-नियमः पत्नी-गण-समन्वितः । प्रविवेश पुरीं राजा सभृत्य-बल-वाहनः |८|| दशरथ-पुत्रोत्पत्तिः ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ। कौशल्याजनयद्रामं सर्व-लक्षण-संयुतम् । भरतोनाम कैकेय्यां जज्ञे सत्य-पराक्रमः ॥९॥ अथ लक्ष्मण-शत्रुघ्नौ सुमित्राजनयत्सुतौ। उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥१०॥ युग्मकम् । (अतीत्यैकादशाहं तु नाम-कर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकेयी-सुतम् ॥११॥ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरन्तथा । वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥१२॥ आरभन् ) छान्दसम् । (पुत्रीया पुत्र-प्राप्ति-हेतुभूताम् । समासदीक्षानियमः ) समाप्तो दीक्षार्थो नियमो यस्य । ( नावमिके तिथौ.) नवम्यां तिथौ । (सत्त्वपराक्रमः ) सत्यः कापश्यरहितः पराक्रमः यस्य । जनाकुलः ) जनैः प्राकुलः व्यासः ।