पृष्ठम्:रामकथामञ्जरी.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राम-कथा-मंजरी ( बालकाण्डम् ) अयोध्यावर्णनम् कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूत-धन-धान्य-वान् ॥१॥ अयोध्या नाम नगरी तत्रासील्लोक-विश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।।२।। तस्यां पुर्य्यामयोध्यायां वेद-वित्सर्व-संग्रहः । राजा दशरथो नाम लोकस्य परिरक्षिता ॥३॥ नानाहिताग्निर्नायज्वा न क्षुद्रो न च तस्करः । कश्चिदासीदयोध्यायां न चाहत्तो न संकर ॥४॥ तस्य चैव-प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंश-करः सुतः ॥५॥ -(मुदितः) सन्तुजन: । (स्फीतः ). उत्तरोत्तरं वृद्धिंगतः ।(मानवेन्द्रेण ) मनुष्य-स्वामिना । ( सर्वसंग्रहः) सर्वेषामपरिमित-वल-राष्ट्र-दुर्गादीन-संग्राहक ( अनाहिताभिः) अजस्त्राग्निहो त्ररतः। (अयज्वा ) यागरहितः । (. अवृत्तः ) सदाचाररहितः । ( एवं-प्रभावस्य) एवं वर्णितः प्रभावोगस्य । तप्यमानस्य ) एवंविधैश्वर्यवत्वेऽपि परितप्यमानस्य ।