पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


६१
रसगङ्गाधरः।

यथा---
'सरसिजवनबन्धुश्रीसमारम्भकाले
रजनिरमणराज्ये नाशमाशु प्रयाति ।
परमपुरुषवक्त्रादुद्गतानां नराणां
मधुमधुरगिरां च प्रादुरासीद्विनोदः ॥'

अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बोध्यम् ।

'खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानवः ॥'

अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातगृहेऽञ्चति' इति वाक्यार्थे खण्डितापदाभिधानम् ।

'अयाचितः सुखं दत्ते याचितंश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥'

अत्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः।

'तपस्यतो मुनेर्वक्त्राद्वेदार्थमधिगत्य सः ।
वासुदेवनिविष्टात्मा विवेश परमं पदम् ॥'

अत्र मुनिस्तपस्यति तद्वक्त्रात्स वेदार्थमधिगतवान्, तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्, ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शतृ-क्त्वा-बहुव्रीहिभिस्तिङन्तेन चानुवाद्य विधेयभावेनैकवाक्यार्थीकृतः । साभिप्रायत्वं च प्रकृतार्थपोषकता ।


द्वितीयचरणोऽपि तदर्थे । तृतीयचरणेन ब्राह्मणानामित्यर्थंलाभः । ईशमुखजत्वात्तेषाम् । उद्गतानामित्यस्य गिरां चेत्यत्रापि संबन्धः । अत एव च वेदानामित्यर्थलाभः । द्वितीयोदाहरणमाह-खण्डीति । कञ्जं कमलम् । सूर्यस्य किरणाः । खण्डितानेत्ररञ्जकत्वं तु तदा प्रियदर्शनेनेति बोध्यम् । अञ्चति गच्छति । तृतीयोदाहरणमाह-अयाचीति । उच्छृङ्खलो निर्मर्यादः । तुर्योदाहरणमाह-तपेति । सः परमभक्तः कश्चित् । अत्रेत्यस्यादाविति शेषः । तद्वक्त्रादित्यस्य तत इत्यादिः । आत्मशब्दार्थमाह-मन इति