पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५६
काव्यमाला ।
तथा हि---

शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः।

यदाहुः-'श्लिष्टमस्पष्टशैथिल्यम्' इति । यथा-'अनवरतविद्वद्द्रुमद्रोहिदारिद्र्य​माद्यद्द्विपोद्दामदर्पौघ​विद्रावणप्रौढपञ्चाननः' इति ।

गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः।

यथा--

'किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥'

अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्तं गाढत्वम्, पुनर्नयनेऽन्तं प्रथममित्यादि बोध्यम् ।

उपक्रमादा समाप्ते रीत्य​भेदः समता ।

यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमसंहारौ ।

संयोगपरहस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ।


प्रत्येकाभिप्रायमेकवचनम् । तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह-शब्दानामित्यादि । संहितया परसंनिकर्षण । श्लिष्टं श्लेषः । न स्पष्टं शैथिल्यं भेदो यत्रेत्यर्थः । विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिद्र्य​रूपा माद्यन्तो द्विपा गजास्तेषामुत्कृष्टदर्पसमूहनाशने समर्थः सिंहस्त्वमिति राजवर्णनम् । व्युक्रमेणादौ शैथिल्यमग्रे गाढत्वम् । हे पृथ्वीन्द्र, यस्मिंस्त्वयि क्रीडया तस्यां वा, कुण्डलिते भ्रुवौ शोणनयने च यस्य तस्मिन्सति । दोर्मण्डलं दोर्युग्मं पश्यति च सति । तत्कालं तस्मिन्नेव समये । रक्तमणिसमूहकान्तिमिश्रितैर्भूषणानन्तसमूहैर्विन्ध्याद्रेर्वनगुहागृहवृक्षाश्चत्वार उल्लासिताः । अतस्तव वीर​ताममी वयं किं ब्रूम इत्यर्थः । क्रीडायां तथाकृतं श्रुत्वा शत्रवः पलाय्य विन्ध्यप्रदेशे संगता इति भावः । आ समाप्तेः समाप्तिपर्यन्तम् । रीत्यभेद इति । रीतयश्चोपनागरिका परुषा कोमला च । एता एव क्रमेण वैदर्भीगौडीपाञ्चाल्य उच्यन्ते । माधुर्यव्यञ्जकवर्णयुताद्यौ । ओजोव्यञ्जकवर्णयुता द्वितीया । माधुर्यौजोव्यञ्जकवर्णातिरिक्तकेवलप्रसादयुक्ताक्षरान्त्येति विवेकः । अन्त्याया एव ग्राम्येति संज्ञा केषांचित् । वक्ष्यमाणेत्यस्यानुपदमित्यादिः । संयोगपरेति । संयोगश्चात्र परसवर्णानिष्पन्नहलघटित एव