पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५०
काव्यमाला ।

इत्थमविरोधसंपादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर्वा नाभिधातुमुचिंतः । अनास्वाद्यतापत्तेः । तदास्वादश्च व्यञ्जनमात्रनिष्पाद्य इत्युक्तत्वात् । यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात् । आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च । एवं स्थायिव्यभिचारिणामपि शब्दवाच्यत्वं दोषः। एवं विभावानुभावयोरसम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोदॉषत्वम् । समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकमिति दोषः । प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद् इति विच्छिन्नदीपनं दोषः । तथा तत्तद्रसप्रस्तावनानर्हेऽवसरे प्रस्तावः । विच्छेदानर्हे च विच्छेदः । यथा संध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकत्यानुरागवर्णने । [यथा वा] समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्युद्गिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयमनुचितम् । एवमप्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानाम​नेकविधायाश्च संपदो नायकसंबन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । तथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिध्येत् । तत्प्रयुक्तो रसपोषश्च न स्यात् । न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कथमवर्णनीयत्वमिति


साधारणत्वं विशेषणस्य । तद्वलात्करुणशृङ्गारयोरभिव्यक्तिः । एवमविरोधानुक्त्वा दोषानाह-इन्थमिति । उक्तप्रकारैरित्यर्थः । शङ्कते-यत्रेति । सामान्यदोषमुक्त्वा विशेषदोषमाह-आस्वाद्येतिकापेयेति । वानरचेष्टिततुल्यत्वेनेत्यर्थः । एवं रसवत् । दोषान्तरमाह-एवमिति । उक्तदोषवदित्यर्थः । तयोर्दोषत्वमिति । तद्विषयकासम्यक्प्रत्ययविलम्बप्रत्यययोरित्यर्थः । दोषान्तरमाह-समबलेति । रसाङ्गविशेषणम् । प्रातीपिकं प्रतिकूलतासंपादकम् । विरुद्धमिति यावत् । दोष इति । तदेव दोष इत्यर्थः । दोषान्तरमाह-प्रबन्ध इति । सामग्र्येण साकल्येन । दोषान्तरद्वयमाह—तथेति । द्वितीयमुदाहरति-समुपेति । इतः प्राग्यथा वेत्यपपाठः । दोषान्तरमाह--एवमिति । तेभ्यो नानाचरितादिभ्यः । तत्प्रयुक्त उत्कर्षप्रयुक्तः । तदभीति । तत्तिरस्कारकारी-