पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
रसगङ्गाधरः ।

प्रथमो निवर्तते । यथा नायकगतत्वेन वीरसरे वर्णनीये प्रतिनायके भयानकस्य । रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते । रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेनं विरोधासंभवाच्च ।

उदाहरणम्---
‘कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव ।
मृगारातेरिव मृगाः परे नैवावतस्थिरे ॥'

रसान्तरत्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि निवर्तते । यथा मन्निर्मितायामाख्यायिकाया कण्वाश्रमगतस्य श्वेतकेतोमेहर्षेः शान्तिरसप्रधाने वर्णने प्रस्तुते ‘किमिदमनाकलितपूर्व रूपम्, कोऽयमनिर्वाच्यो वच​नरचनाया मधुरिमा' इत्यद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णने ।

यथा वा---
‘सुराङ्गनाभिराश्लिष्ठा व्योम्नि वीरा विमानगाः ।
विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ॥'

अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभाक्षिप्ता वीररसो निवेशितः । । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्तिकालगतचर्वणाकत्वम् । तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयार्धे बीभत्सस्येति स्फुटमेव । ‘भूरेणुदिग्घ​न्' इत्यादि काव्यप्रकाशगतपद्यकदम्बेषु तु प्रथमश्रुतबीभत्ससामग्रीवशाद्बीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य


धिनः । रसस्येति शेषः । प्रथमः स्थितिविरोधः । भयानकस्य । स्थापने इति शेषः । रसस्य मुख्यरसस्य । अत एवाह-अद्वितीयेतिउदेति । उक्तरीत्या आद्यविरोधाभावोदाहरण​मित्यर्थः । कुण्डलीति । बहुव्रीहिद्वयम् । मृगारातेः सिंहस्य । परे शत्रवः । अन्तराले विरुद्धरसयोर्मध्ये वरवर्णिनीं तदाख्यनायिकाम् । व्योम्नि विमानगा इत्यन्वयः । फेरुनारीभिर्जम्बुकस्त्रीभिः । अत्र सुराङ्गेति । यथासंख्यमन्वयः । स्वर्गलाभश्च पूर्वार्धेन प्रतिपादितः । तदुभयेति । विरुद्धरसद्वयेत्यर्थः । चर्वणात् । क्रमेण पादद्वयेनेति भावः । बीभत्सस्य चर्वणादित्यस्यानुषङ्गः । तच्चेत्यस्य स्फुटमेवेत्यत्रान्वयः । चर्वणे ।