यच्च सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्---
‘चित्रं महानेष तवावतारः क्व कान्तिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥” इति,
तत्रेदं वक्तव्यम्-प्रतीयतां नामात्र विस्मयः, परं त्वसौ कथंकारं [अद्भुतरस]ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य ‘पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्' इत्यादौ वाक्यसंदर्भे । इत्थं चास्य रसालंकारत्वमुचितम् । भक्तिर्नैवात्र प्रतीयत इति चेद्दरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः ।
हास्यो यथा--
'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा ।
अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्न्याः ॥'
तार्किकपुत्रोऽत्रालम्बनम् । तदीया निःशङ्कोक्तिरुद्दीपिका । रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः ।
अत्राहुः-
‘आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् ।
आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते ।
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥
उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् ।
व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ॥
माह-यथेति । पार्थस्यार्जुनस्य । इत्यादिरूपवाक्यसंदर्भे । तस्य तत्र त्वंग्रथेत्यर्थः । अस्य प्राचोक्तपद्यस्य । एवमग्रेऽपि । ईषन्मुकुलितलोचनमिति क्रियाविशेषणम् । विहिते ऋते । गौर्गर्दभी च तल्येति भावः । रदनेति । दन्तेत्यथैः । यथासंख्यमन्वयः । अत्र हास्यविषये । आहुः प्राञ्चः । तदेवाह---आत्मेत्यादिमतमितीत्यन्तेन । अस्य हास्यस्य । त्र्यवस्थ उक्तप्रकारेण त्रिधावस्थः । तस्योक्तविधस्य । षण्णां क्रमेण लक्षणान्याह-ईष-