पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला ।

यथा--
“परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्लमं वहामि ॥'

पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु ‘अपि वक्ति-' 'परिहरतु धराम्-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः । रसध्वनिसामान्यमेव वा किं न तद्व्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते । दयावीरादिषु प्रतीयत इति तु राज्ञामा(राजा)ज्ञामात्रम् ।

अद्भुतो यथा-
'चराचरजगज्जालसदनं वदनं तव ।
गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना ॥'

कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम् । अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम् । हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभिचारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते । व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे । अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्क्यः ।


पुरुहूत, स्वपक्षैकदेशे । ‘निखिलमिदं जगदण्डकं वहामि' इति पाठः । वीररसध्वन्युच्छेदमुक्त्वा तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति । स्थायीत्यस्य तत्रेत्यादिः । दयावीरादिषु प्राचीनोदाहृतेषु । गलन्नष्टम् । तेन गम्यमिति । तद्बोधकशब्दाभावादिति भावः । अत्र भावध्वनित्वं निराचष्टे-नैवेतिप्रतीतायां वेति । प्रकरणादिपर्यालोचनयेति भावः। विस्मयस्य गुणत्वमिति । विस्मयस्योत्कटत्वेन तस्या एव गुणत्वमनुत्कटत्वात् । हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः । अन्यथापि संभावितत्वं निराचष्टे-एवमिति । तस्या इत्यस्य मध्यमणिन्यायेनान्वयः । अत उपपत्त्यभावादेव । तस्यामपि भक्तावपि । कथंकारं कथं कृत्वा । अस्य विस्मयस्य । तत्र दृष्टान्त-