एषा धर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम् । 'न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम् । शिरश्छेदाद्यङ्गीकारोऽनुभावः । धृतिः संचारिणी । इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् ।
वस्तुतस्तु बहवो वीरस्सस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते । तथा हि---प्राचीन एव ‘सपदि विलयमेतु' इत्यादि पद्ये ‘मम तु ...तिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरता प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम् । दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात् ।
- एवं पाण्डित्यवीरोऽपि प्रतीयते ।
यथा---
‘अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा ।
अयमस्मि पुरो हयार्ननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः ॥'
अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वात् । इति चेत्, क्षमावीरे किं ब्रूयाः ।
यथा-
'अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं न किंचिदाभाषे ॥'
- क्षमावत उक्तिरियम् ।
- बलवीरे वा किं समादध्याः ।
तदन्तरिति । धर्मान्तर्गततयेत्यर्थः । तद्वीरेति । दानदयावीरयोरपीत्यर्थः । तासामधीति । गिरामधिष्ठात्री देवता । सरस्वतीत्यर्थः । हयाननो हयग्रीवः । तां धराम । हे