पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला ।

अथवैवं विन्यासः-
न कपोतकपोतकं तव स्पृश​तु श्येन मनागपि स्पृहा ।
इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥'

एषा शिबेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तद्गतं व्याकुलीभवनमुद्दीपनम् । तस्य कृते स्वकलेवरार्पणमनुभावः । न चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः। श्येने शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् ।

तृतीयो यथा-
‘रणे दीनान्देवान्दशवदन विद्राव्य वहति
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः ।
ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ॥'

एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम् । दशवदनावज्ञानुभावः। गर्वः संचारी । वृत्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्ध​तापि । तस्यावज्ञया रामगोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकष्टोद्धता ।

चतुर्थो यथा--
‘सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतु तरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥'

तदप्रेति । शरीरदानाप्रतिपत्तेरित्यर्थः । नन्वेवं किमित्यर्पितमत आह-श्येन इति । निरुपाधिकस्थल एव दानप्रतीतिरिति भावः । परिकरो गात्रबन्ध आरम्भो वा । कलयतु जानात्वङ्गीकरोतु वा । तद्गतेति । देवगतेत्यर्थः । देवदर्पेति । तद्दर्पदमनं यद्वीरत्वं तत्प्रेत्यर्थः । तस्य रावणस्य । तत्प्रस्तावे भवप्रस्तावे । तदालम्बनस्य भवाश्रयकस्य ।