पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३९
रसगङ्गाधरः ।

अत एवेदमपि नोदाहरणम्-
‘साब्धिद्दीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां
सर्वां द्यामपि सस्मितेन हरिणा मन्दं समालोकितः ।
प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं
व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥'

इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन ‘त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावाधः' इति श्रीवत्सलाञ्छनोक्तमुदाहरणं परास्तम् । तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु ‘अकरुणमवकृत्य-' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत् । सत्यम् । अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते । राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः ।

द्वितीयो यथा-
‘न कपोत भवन्तमरावपि स्प्ट​शतु श्येनसमुद्भवं भयम् ।
इदमद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ॥'


भूतत्वादेव । सप्तान्तरां सप्तप्राकाराम् । अत एव सर्वाे द्याम् । छलेन द्वाभ्यां सर्वग्र​हणान्मन्दत्वम् । पर उत्कृष्टः । असुरवरो बली दैत्यः । हर्षादिभिरिति । प्रमोदः सुखं तदंशावरणभञ्ज​कश्चित्तवृत्तिविशेषो हर्षः । अतो न वाच्यता व्यभिचारिण इत्यवधेयम् । प्रागन्येति । सामानाधिकरण्यवैयधिकरण्यप्रयुक्तभेदेऽप्युपकारकत्वं तस्य समानमिति भावः । त्यागः सप्तेति । 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुर्वीर्ये तत्र न मद्भिरामनुपमं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यब्र​ह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥' इतीत्यर्थः । एतेनेत्यस्यार्थमाह-तस्येति । ननु स्वकर्तुकैव स्तुतिरास्तामत आह–कर्णस्येति । तादृशोत्साहेनेति । विभावाद्य​भिव्यक्तोत्साहेनेत्यर्थः । सा स्तुतिः । अथिनस्तद्विषयकार्थित्ववतः ।


१. काव्यप्रकाशटीकायाः सारबोधिन्याः कर्ता श्रीवत्सलाञ्छनः,