पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
काव्यमाला ।

स्मितान्सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता प...तिरुद्दीपिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । इत्यर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ । वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी । तथा हि--उत्साहपोषकं कवचकुण्डलार्प​णयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तरार्धे तु मौलितः । प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव । अत एवावेदयामीत्युक्तम् । न तु ददामि वितरामीति वा । <poem>

इदं तु नोदाहरणीयम्-
'यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथा-
माकर्ण्यावनिमण्डलागतवियद्ब​न्दीन्द्रवृन्दाननात् ।
ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्रव-
त्पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥'

अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः, अवनिमण्डलागतवियद्ब​न्दीन्द्रवदनाविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्त्रुतपीयूषप्रकरैरनुभावितः, अस्यादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः ।


याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वेतिमे इत्यर्थान्तरेति । अनेकशो रणेषु क्षतजर्जरीभूतकलेवरत्वं लक्ष्यतावच्छेदकम्, सकलराज्यकोषादिदातृत्वं वा, रविकुन्तीसुतत्वं वा । स्वकीयलोकोत्तरेति । इदमेव च शक्यतावच्छेदकम् । तत्तदिति । तत्तदर्थानुरूपौ यावुद्ग​मविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः । मौलितो मौलिमित्यतः । वक्ता कर्णः । ब्राह्मणे तद्वेष इन्द्रे । तन्मूलीभूतं सविनयत्वमूलीभूतम् । सुरेन्द्रसुरभिः कामधेनुः । यस्य राज्ञः स्तुतिस्तामाकर्ण्य​ तैः प्रावृट्पयोदायते वर्षामेघायते । बन्दीन्द्राः स्तुतिपाठकेन्द्राः । व्यावल्गन्मधु(न्थ)रम् । कोथोऽमर्ष इत्यनर्थान्तरम् । ईर्ष्याक्षमा, गुणेषु दोषारोपोऽसूयेति भेदः । असूयादिभिरिति । ईर्ष्याजनिका चासूयेति व्यङ्ग्यत्वमेवास्या इति भावः । कामगवी कामधेनुः । अत एव गुणी-