पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३६
काव्यमाला ।

क्रमभङ्गमावहति, तथापि वक्तुर्बह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संप...मिति द्योतनाय क्रमभङ्गो गुण एव ।

इदं पुनर्नोदाहार्यम्--
“सुरस्वोतस्विन्याः पुलिनमधितिष्ठन्नयनयो-
र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥'

अत्रापि यद्यपि विषगणालम्बनः सुरस्त्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायी निर्वेदः प्रतीयते । तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः । इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्यामुपनिबद्धमिति तत्प्रधानभावप्राधान्यमेवार्हति । शान्तरसाननुगुणश्चायमोजस्वी गुम्फ इति चानुदाहार्यमेवैतत् । पूर्वपद्ये तु ‘परमात्मनि स्थितिः' इत्यनेन तत्ताद्रूप्यावगमाद्रतेरप्रतिपत्तिः ।

रौद्रो यथा--
'नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति ।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥'

अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम् । अत एव विशेष्यानुपादानम् । गुरुद्रुहो नामग्रहणानौचित्यात्। क्रोधाविष्काराद्वा । ध्वनिविशेषानुमितो निःशङ्क​धनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वोग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभग्र​समाधेर्भार्गवस्योक्तिः ।


इति । अनित्यत्वेन ज्ञात इति । क्रमभङ्गमिति । तथा चाक्रमत्वदोषाद्दुष्टं काव्यमिति भावः । गुण एवेति । तथा चादुष्टमिति भावः । पुलिनमिति । ‘अधिशीङ्-' इति कर्म । सपदि तत्कालम् । गुम्फो रचनाविशेषः । इति च, इत्यतोऽपि । नन्वेवमुदाहृतपद्येऽप्येवं स्यादत आह-पूर्वेति । तदानीं क्रोधसमये । गुरुः शिवः । अत एवेत्यस्या-