पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३२
काव्यमाला ।
गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी ।

पुत्रादिवियोगमरणादिजन्मा वैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः ।

स्त्रीपुंसयोस्तु वियोगे जीवित्वज्ञानदशायां वैक्लव्यपोषिताया रते- रेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्लव्यं तु संचारिमात्रम् । मृतत्वज्ञानद​शायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव । यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्तदा- लम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एंव, न स क- रुणः । यथा चन्द्रामीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरमेवात्र करुणविप्रलम्भाख्यमिच्छन्ति ।

नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः ।

गृहकलहादिजस्तु व्यभिचारी ।
गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ।

अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः ।

परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः ।

अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः ।

वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः ।

व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ।

परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी । अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः ।


दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तत्र तेषां मध्ये । आदिना नृपादिपरिग्रहः । शोकं लक्षयति-पुत्रादीति । पुत्रादीत्युक्तिफलमाह--स्त्रीपुंसेति । वियोग उक्त्वा मरण आह—मृतत्वेति । वैक्लव्यस्येति । प्राधान्यमिति शेषः । एवादादिनेत्यस्य पुनरुज्जीवनेऽन्वयः । कथंचित्केनापि प्रकारेण । एव ने सेति । विप्रलम्भ एव सः, न करुण इत्यर्थः । अत्र पुनरुज्जीवनस्थले। उक्तरीत्यैव निर्वाहेऽधिकतत्स्वीकारो वृथेत्यरुचिः केचिदित्यनेन सुचिता । वधादीति । वधादिरूपो यः परमापराधस्तज्ज इत्यर्थः । परमानर्थेति । मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेषः । त्रासस्तदाख्यः । विभावादीं-