पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
रसगङ्गाधरः ।

वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात् । व्यभिचारिणां तु नैव, तदभिव्यक्तेर्विद्युदुद्द्योतप्रायत्वात् ।

यदाहुः--
‘विरुद्दैरविरुद्दैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्याशु स स्थायी लवणाकरः ॥
चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः ।
रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते ॥

चिरमिति व्यभिचारिवारणाय । अनुबन्धिभिर्विभावाद्यैः।

तथा--
‘सजातीयविजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति ।

केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः । तन्न । रत्यादीनामेकस्मिन्प्र​रूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे बह्व​ल्पविभावजत्वे ।

तदुक्तं रत्नाकरे-
‘रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः ।
स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥' इति ।

एवं च वीररसे प्रधाने क्रोधो रौद्रे चोत्साहः शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च । यदा तु प्रधानपरिपोषार्थं सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम् ।

तत्र
स्त्रीपुंसयोरन्योन्याल​म्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायिभावः ।

विभावादीनिति शेषः । लवणेति । लवणाकर इवेत्यर्थः । बह्वल्पविभावजवे इति । बहु विपुलम् । विभावशब्दो वा साहचर्याद्विभावानुभावव्यभिचारिपरः । अत एव रत्नाकरे बहुवचनम् । एवं च एकस्य प्ररूढत्वेऽन्यस्य तत्वाङ्गीकारे च । नान्तरीयेति । क्रोधादि विना तदसंभवादिति भावः । सोऽपि क्रोधादिरपि । रसालंकार इति । रसव-