पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२९
रसगङ्गाधरः ।

नुपपत्तेः सूत्रे मिलितानामुपादानम् । एवं च प्रामाणिके मिलितानां व्यञ्ज​कत्वे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्बोधस्तत्रेतरद्वयमाक्षेप्यम् । अतो नानैकान्तिकत्वम् । इत्थं नानाजातीयाभिः शेमुषीभिर्नानारूपतयावसितोऽपि मनीषिभिः परमाह्वादाविनीभावितया प्रतीयमानः प्रपञ्चेऽस्मिन्न​सो रमणीयतामावहतीति निर्विवादम् ॥

स च
'शृङ्गारः करुणः शान्तो रौद्रो वीरोऽद्भुतस्तथा ।
हास्यो भयानकश्चैव बीभत्सश्चेति ते नव ॥

इत्युक्तेर्न​वघा । मुनिवचनं चात्र मानम् ॥

केचित्तु---
'शान्तस्य शमसाध्यत्वान्नटे, च तदसंभवात् ।
अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यते ॥'

इत्याहुः । तच्चापरे न क्षमन्ते । तथा हि — नटे शमाभावादिति हेतुरसंगतः । नटे रसाभिव्यक्तेरस्वीकारात् । सामाजिकानां शमवत्वेन तत्र रसोद्बोधे बाधकाभावात् । न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम् । तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशकताया अप्यसंगत्यापत्तेः । यदि च नटस्य क्रोधादेरभावेन वास्तवतत्कार्याणां वधबन्धादीनामुत्पत्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरीक्ष्यते तदा प्रकृतेऽपि तुल्यम् । अथ


रौद्राद्भुतवीराणाम् । अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः । चिन्तादयो व्यभिचारिणः शृङ्गारस्येव करुणवीरभयानकानाम् इति । एवं च उक्तहेतोस्तदनुपपत्तौ च । यत्र क्वचिदिति । 'परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदपाण्डुः कपोलः ॥' इत्यादावित्यर्थः । परमप्रकृतमुपसंहरति-इत्थमिति । उक्तप्रकारैरित्यर्थः । शेमुषीभिर्मतिभिः । अविनेति । तन्नियतसंबन्धितयेत्यर्थः । तद्भेदमाह–स चेति । अत्राप्रामाण्यशङ्कां निराचष्टे-मुनीति । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च काव्ये नव रसाः स्मृताः ॥' इतीत्यर्थः । शमसाध्यत्वाच्छमस्थायिकत्वात् । नाट्ये इत्यस्येतीति शेषः । प्रकृतेऽपि तुल्यमिति । न च शान्तस्य रोमाञ्चादिराहित्येनानभिनेयत्वात्कथं नाट्ये स